||Sundarakanda ||

|| Sarga 27||( Only Slokas in Devanagari) )

Sloka Text in Telugu , Kannada, Gujarati, Devanagari, English

हरिः ओम्

|| ओम् तत् सत्||
सुंदरकांड.
अथ सप्तविंशस्सर्गः

इत्युक्ताः सीतया घोरा राक्षस्यः क्रोधमूर्छिताः|
काश्चित् जग्मुः तदाख्यातुं रावणस्य तरस्विनः||1||

ततस्सीता मुपागम्य राक्षस्यो घोरदर्शनाः|
पुनः परुषमेकार्थं अनर्थार्थम् अथाब्रुवन्||2||

अद्येदानीं तवानार्ये सीते पापविनिश्चये|
राक्षस्यो भक्षयिष्यंति मांस मेतत् यथासुखम्||3||

सीतां ताभि रनार्याभिः दृष्ट्वा संतर्जितां तदा|
राक्षसी त्रिजटा वृद्धा शयाना वाक्यमब्रवीत् ||4||

आत्मानं खादता नार्या न सीतां भक्षयिष्यथ|
जनकस्य सुता मिष्टां स्नुषां दशरथस्य च||5||

स्वप्नो हृद्य मया दृष्टो दारुणो रोमहर्षणः|
राक्षसानां अभावाय भर्तुरस्या जयाय च||6||

एवमुक्ता त्रिजटाया राक्षस्यः क्रोधमूर्छिताः|
सर्वा एवाब्रुवन् भीताः त्रिजटां तां इदं वचः||7||

कथयस्व त्वया दृष्टः स्वप्नोऽयं कीदृशो निशि|
तासां श्रुत्वातु वचनं राक्षसीनां मुखाच्च्युतम्||8||

उवाच वचनं काले त्रिजटा स्वप्न संस्थितम्|
गजदंतमयीं दिव्यां शिबिकामंतरिक्षगाम्||9||

युक्तां हंस सहस्रेण स्वयमास्थाय राघवः|
शुक्लमाल्यांबरधरो लक्ष्मणेन सहागतः||10||

स्वप्ने चाद्य मया दृष्टा सीता शुक्लांबरावृता|
सागरेण परिक्षिप्तं श्वेतं पर्वत मास्थिता||11||

रामेण संगता सीता भास्करेण प्रभा यथा|
राघवश्च मया दृष्ट श्चतुर्दंतं महागजम्||12||

आरूढः शैलसंकाशं चचार सह लक्ष्मणः|
ततस्तौ नरशार्दूलौ दीप्यमानौ स्वतेजसा||13||

शुक्लमाल्यांबरधरौ जानकीं पर्युपस्थितौ|
ततस्तस्य स्याग्रे ह्याकाश स्थस्य दंतिनः||14||

भर्त्रा परिगृहीतस्य जानकी स्कंधमाश्रिता|
भर्तुरंकात् समुत्पत्य ततः कमललोचना||15||

चंद्रसूर्यौ मया दृष्टा पाणिभ्यां परिमार्जती|
ततस्ताभ्यां कुमाराभ्या मास्थितः स गजोत्तमः||16||

सीतया च विशालाक्ष्या लंकाया उपरिस्थितः|
पाण्डुरर्षभ युक्तेन रथे नाष्टयुजा स्वयम्|| 17||

इहोपयातः काकु‍त् स्थः सीतया सह भार्यया|
लक्ष्मणेन सहभ्रात्रा सीतया सह वीर्यवान् ||18||

आरुह्य पुष्पकं दिव्यं विमानं सूर्यसन्निभम्|
उत्तरां दिशमालोक्य जगाम पुरुषोत्तमः||19||

एवं स्वप्ने मया दृष्टो रामो विष्णुपराक्रमः|
लक्ष्मणेन सहभ्रात्रा सीताय सह भार्यया||20||

न हि रामो महातेजा श्शक्यो जेतुं सुरासुरैः|
राक्षसैर्वापि चान्यैर्वा स्वर्गं पापजनैरिव||21||

रावणश्च मयादृष्टः क्षितौ तैलसमुत्‍क्षितः |
रक्तवासाः पिबन्मत्तः करवीरकृत स्रजः||22||

विमानात् पुष्पकादद्य रावणः पतितो भुवि|
कृष्यमाण स्त्रिया दृष्टो मुंडः कृष्णांबरः पुनः||23||

रथेन खरयुक्तेन रक्तमाल्यानुलेपनः|
पिबं स्तैलं हसन् नृत्यन् भ्रांतचित्तकुलेंद्रियः||24||

गर्धभेन ययौ शीघ्रं दक्षिणां दिशमास्थितः|
पुनरेव मयादृष्टो रावणो राक्षसेश्वरः||25||

पतितोऽवाक्छिरा भूमौ गर्धभात् भयमोहितः|
सहसोत्थाय संभ्रांतो भयार्तो मदविह्वलः||26||

उन्मत्त इव दिग्वासादुर्वाक्यं प्रलपन् बहु|
दुर्गंधं दुस्सहं घोरं तिमिरं नरकोपमम्||27||

मलपंकं प्रविश्याशु मग्नस्तत्र स रावणः|
कंठे बध्वा दशग्रीवं प्रमदा रक्तवासिनी||28||

काली कर्दमलिप्तांगी दिशं याम्यां प्रकर्षति|
एवं तत्र मयादृष्टः कुंभकर्णो निशाचरः||29||

रावणस्य सुतास्सर्वे दृष्टा स्तैलसमुत्‍क्षिताः|
वराहेण दशग्रीव श्शिंशुमारेण च इंद्रजित्||30||

उष्ट्रेण कुंभकर्णश्च प्रयातो दक्षिणां दिशम्|
एकस्तत्र मया दृष्टा श्श्वेतच्छत्रो विभीषणः||31||

शुक्लमाल्यांबरधरः शुक्लगंधानुलेपनः|
शंखदुंदुभिनिर्घोषैः नृत्तगीतैरलंकृतः||32||

आरुह्य शैलसंकाशं मेघस्तनितनिस्स्वनम्|
चतुर्दंतं गजं दिव्यमास्ते तत्र विभीषणः||33||

चतुर्भिः सचिवैः सार्थं वैहायस मुपस्थितः|
समाजश्च मया दृष्टो गीतवादित्र निस्स्वनः||34||

पिबतां रक्तमाल्यानां रक्षसां रक्तवाससाम्|
लंकाचेयं पुरी रम्या सवाजि रथकुंजरा||35||

सागरे पतिता दृष्टा भग्न गोपुरतोरणा|
लंका दृष्टा मया स्वप्ने रावणे नाभिरक्षिता||36||

दग्धा रामस्य दूतेन वानरेण तरस्विना |
पीत्वा तैलं प्रवृत्ताश्च प्रहसंत्यो महास्वनाः||37||

लंकायां भस्मरूक्षायां प्रविष्टा राक्षस स्त्रियः|
कुंभकर्णादयश्चेमे सर्वे राक्षस पुंगवः||38||

रक्तं निवसनं गृह्य प्रविष्टा गोमयह्रदे|
अपगच्छत नश्यध्वं सीता माप स राघवः||39||

घातयेत् परमामर्षी सर्वै स्सार्थं हि राक्षसैः|
प्रियां बहुमतां भार्यां वनवास मनुव्रताम्||40||

भर्त्सितां तर्जितां वापि नानुमंश्यति राघवः|
तदलं क्रूरवाक्यैः वः सांत्वमेवाभिदीयताम्||41||

अभियाचाम वैदेही मे तद्धि ममरोचते|
यस्यां एवं विधः स्वप्नो दुःखितायां प्रदृश्यते||42||

सा दुःखैः विविधै र्मुक्ता प्रियं प्राप्नोत्यनुत्तमम्|
भर्त्सिता मपि याचध्वं राक्षस्यः किं विवक्षया||43||

राघवाद्धि भयं घोरं राक्षसाना मुपस्थितम्|
प्रणिपातप्रसन्ना हि मैथिली जनकात्मजा||44||

अलमेषा परित्रातुं राक्षस्यो महतो भयात् |
अपि चास्या विशालाक्ष्या न किंचि दुपलक्षये||45||

विरूपमपि चांगेषु सुसूक्ष्ममपि लक्षणम्|
छायावैगुण्यमात्रं तु शंके दुःखमुपस्थितम्||46||

अदुःखार्हा मिमां देवीं वैहायस मुपस्थितम्|
अर्थसिद्धिं तु वैदेह्याः पश्याम्यह मुपस्थिताम्||47||

राक्षसेंद्रविनाशं च विजयं राघवस्य च|
निमित्तभूत मेत त्तु श्रोतुमस्या महत्प्रियम्||48||

दृश्यते च स्फुरच्छक्षुः पद्म पत्र मिवायतम्|
ईषच्च हृषितो वास्या दक्षिणाया ह्यदक्षिणः||49||

अकस्मादेव वैदेह्या बाहुरेकः प्रकंपते|
करेणु हस्त प्रतिम स्सव्य श्चोरु रुनुत्तमः||50||
वेपमान स्सूचयति राघवं पुरतः स्थितम्||51||

पक्षी च शाखा निलयः प्रहृष्टः
पुनः पुनश्चोत्तम सांत्ववादी|
सुस्वागतां वाच मुदीरयानः
पुनः पुनश्चोदयतीव हृष्टः||52||

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये वाल्मीकीये
चतुर्विंशत् सहस्रिकायां संहितायाम्
श्रीमत्सुंदरकांडे सप्तविंशस्सर्गः||

|| Om tat sat ||